________________
केशवकृतः कल्पद्रुकोशः पीतं काञ्चनकं गौरीललितं कनकद्रवः । शिलाजन्तु पर्याय मश्मोत्थं गिरिसंभवम् ॥५६८॥ गन्धको गन्धपाषाणो गन्धमादनमस्त्रियाम् । पूतिगन्धोऽदिव्यगधः सुगन्धः क्रूरगन्धकः ॥५६॥ वटसौगन्धिकः कुष्ठकीटयोररिरित्यपि । गन्धाद्रसोयं श्वेतादिवर्णभेदाच्चतुर्विधः ॥५७०॥ काशीसं धातुकाशीसं 'केशरं हंसलोमशम् । शोधनं पांशुकाशीसं शुभ्रमन्यन्मलीमसम् ॥५७१॥ वत्सकं वत्सकाशीसमथ माक्षीकपीतके । पीतमाक्षिकमापीत माक्षीकं धातुमाक्षिकम् ॥५७२॥ ताप्यंहेमाह्वयं तारमाक्षिकं स्यादथाञ्जनम् । नादेयं यामुनं कृष्णं चक्षुष्य वारिसंभवम् ॥५७३॥ कापोतंहकप्रदं स्रोतोञ्जनं नीलाञ्जनं पुनः । सौवीरमथ चक्षुष्या हकप्रसादा मलापहा ॥५७४॥ कुलाल्यपि कुलत्थाथ कौसुम्भ कुसुमाञ्जनम् । रीतिक रीतिकुसुमं पौष्करं पुष्पतोञ्जनम् ॥५७५॥ पुष्पकेतुः पुमांश्चाथ रसोद्भूतं रसाञ्जनम् । वीर्याञ्जनं तार्यशैलं रसगर्भ रसायनम् ॥५७६॥ १ जतु इति पाठः स्यात् २ केशरमित्यादि पांशुकाशीसमित्यन्त पुस्तके नापलभ्यते
३ कौस्तुभंB ४ रसभं च ।