________________
१६० केशवकृतः कल्पद्रुकोशः षड्भिस्ताभिर्मरीचिः स्त्री षड्भिराभिस्तु राजिका । ताभिस्त्रिभिः सर्षपः स्यात्सर्षपैरष्टभिर्यवः ॥५१४॥ द्वाभ्यां यवाभ्यां गुञ्जा स्यात्पञ्च ता माषमाषको' । स एव हेमधान्यो ना तैश्चतुर्भिस्त शाणकः ॥५१५॥ टकोऽस्त्री धरणं शाणद्वयं कोलस्तु दंक्षमः २ । क्षुद्रमोवटकः ३ कोलौ कर्षः पुंसि नपुंसके ॥५१६॥ अस्त्री हेम्नः सुवर्णं तच्चतुस्तैिः पलं तु षण । द्वयोर्मुष्टिः स्त्रियां मुष्टी सपाट पुसिवा स्त्रियाम् ॥५१७॥ तद्वदन्येऽपि विज्ञेयास्तत्र पाणितलं पिचुः । किंचित्पाणिः पाणिमानी करमध्यं च तिन्दुकम् ॥१८॥ नाखो हंसपदं वर्ण विडालपदमित्यपि । उदुम्बरं षोडशी स्यात् कवलग्रहकः पुनः ॥५१६।। प्रथमं न स्त्रियां पुंसि तृतीयं स्त्री चतुर्दशम् । चतुष्टयं तु कर्षाणां पलमित्यभिधीयते ॥५२०॥ सुवर्णाने स्वर्णविस्तं कुरुविस्तं तु तत्पले । तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ॥५२१॥ श्राचितः पुंसि वा क्लीबे द्वयं वा दशभारिकम् । मानभेदे भरः पुंसि सहस्रद्वितयैः पलैः ॥५२२॥
१ मापको B २ द्रक्षमः ३ कोलाकोल: B४ सपाटःपुंसि चा B ५ विस्तस्तु B