________________
१८८
केशवकृतः कल्पद्रुकेोशः
ब्जं खवं निखर्व च महाब्जं शङ्खवारिधी । अन्त्यं मध्यं परार्द्ध च परार्द्धद्विगुणं परम् ॥ ३६६ ॥ एतदायुः परंधातुः शतवर्षमितं हि तत् । शतं क्लीबे पुंसि वा स्यात् क्लीवे साहस्रमित्यपि ॥ ४६७॥ सहस्रमयुतं लक्षा स्त्रियां क्लीवे क्वचिन्मतम् । स्त्रियां क्लीवे तु नियुतं कोटी कोटिरुभे स्त्रियौ ॥४६८ ॥ श्रस्त्र्यर्बुदं शङ्करस्त्री' क्लीबे वा पद्ममस्त्रियाम् । पुंसि चाथ महापद्मं तद्वदन्यानि न द्वयोः ॥ ४६६ ॥
चमत्कारावहा लोके कलाः स्युश्चतुरुत्तराः । षष्टिगतं वाद्यनृत्ये नाट्यमालेख्यमेव च ॥५००॥ तिलकं पुष्परचना पुष्पास्तरणमेव च । रञ्जनं दन्तवस्त्रादेर्मणिबद्धावलिक्रिया ॥५०१ ॥ शय्याम्बुवाद्य मस्तम्भश्चित्रोपायाश्च' माल्यकम् । केसरापीडनेपथ्ये कर्णभूषासुगन्धकौ ॥५०२ ॥ भूषणं चेन्द्रजालं च सुकुमारेण केनचित् । कृता उपाया रूपादौ हस्तलाघवमित्यपि ॥ ५०३ ॥ चित्रशाकं च पूपादि पानकादि च सूचिका । पुत्तलीचालनं वीणा प्रहेलीज्ञानमेव च ॥ ५०४ ॥
१] B २ शङ्कः स्त्री Kc ३ नृत्ते B ४ बद्धो B ५ मप्स्तम्भ इति स्यात्
६ लानमेव B