________________
केशवकृतः कल्पद्रुकोशः १८७ त्र्यादयोष्टादशान्ताः स्युर्वाच्यप्रकृतयः पुनः । एकोनविंशतिस्त्रिंशदित्याद्याः स्युस्त्रिलिङ्गकाः ॥४८६॥ अष्टादशभ्य एकाद्याः संख्याः संख्येयगोचराः । ऊनविंशत्यादिकाः स्युः सर्वाः संख्ययसंख्ययोः ॥४८७॥ विंशत्याद्याः सदैकत्वे स्त्रियां संख्येयसंख्ययोः । संख्यात्वे द्विबहुत्वे स्युस्तासुचा नवतेस्त्रियः ॥४८८॥ ह्रस्वान्ता अपि दीर्घान्ताः स्युरेते विंशतिः पुनः । षष्टिश्च सप्ततिस्तद्वदशीतिर्नवतिः पुनः ॥४८६।। एकोनविंशतिश्चैवमेवमेकानविंशतिः । एकादनविंशतिश्चैवमेकान्नत्रिंशदादयः ॥४६०॥ द्वाविंशतिििवंशतिः सप्ताविंशतिरित्यपि । सप्तविंशतिरित्येवं द्वाषष्टिश्च द्विषष्टिभिः ॥४६१॥ द्वासप्ततिर्द्विसप्ततिरित्याग्रह्या यथाक्रमम् । द्वौ त्रयो वेत्येवमाद्या द्वित्रा स्त्रिचतुरा अपि ॥४२॥ त्रिपञ्चा एवमेकद्वाः षट्सप्ता अपि पञ्चषाः। भूचन्द्रभुजनेत्राग्निगुणवेदयुगाश्रपि ॥४६३॥ भूतेन्द्रियर्तुतकर्षिवाजीभवसवो ग्रहाः । नन्दादिशश्चपङ्क्तिश्च संख्या संज्ञाह्यनुक्रमात् ॥४६॥ यथोत्तरं दशगुणमेकं दशशतं पुनः। सहस्रमयुतं लक्षं प्रयुतं कोटिरर्बुदम् ॥४६॥