________________
१८६
केशवकृतः कल्पडुकोशः
२
स्यान्नागरो' नैगमेोऽपि वाणिजेोऽपि वणिक् पणिः । arat परिणं चापि भाण्डं नीविरपि स्त्रियाम् ॥४७७॥
पि मूलधनं चाथ तत्रलाभोऽधिकं धनात् । वाणिज्यं च वणिज्या स्यान्मूल्यं वस्नाप्यवक्रयः ॥४७८ ॥ वणिक स्त्रियां वाणिजकं वाणिज्यं स्याच्च तत्र तु । वास्नाप्यथ स्यान्नैमेयः स्यात् क्लीवे परिवर्तनम् ॥४७६ ॥
परिवर्त्तः परीवर्त्तः परीवर्त्तनमित्यपि । प्रतिदानं परिदानं दीर्घमध्ये उभे श्रपि ॥ ४८०॥ प्रतिहारः परावर्त्ती विन्योर्मेयमयावथ । स्यान्निक्षे पस्तूप' निधिर्न्यासश्वाथ तदर्पणम् ॥४८१ ॥ प्रतिदानं प्रतीदानं परिदानमतः परम् । परीदानमथ ऋय्यं त्रिषु पराये प्रसारितम् ॥ ४८२॥ क्रेतव्यमात्रे स्यात् क्रेयं विक्रेयं पणितव्यके । पण्यं चाथ स्त्रियां सत्याकृतिः सत्यापना न ना ' ॥४८३ ॥ सत्यंकारोऽपि पुंसि स्यादथाधिः पुंसि लग्नकः । प्रतिभूकः प्रतिस्थेयः साक्षी स्यादथ विक्रयः || ४८४ ॥ विपणश्चाथ संख्याः स्युर्गणेयं गण्य मित्यपि । संख्येय एक एकत्वे द्वित्वे तु द्वावुभावपि ॥ ४८५॥
६
१ नगरो इति पाठः सर्वत्र २ पणी ३ धिकेKC ४ स्तु परिधिB ५ विक्रेयCK ६ सत्यापणं B ७ गणCK ८ द्वाउमा B