________________
केशवकृतः कल्पद्रुकोशः १८५ श्रजा संजा सर्वभक्षा चुलुंपा च' गलस्तनी। छागी चाथ पशुश्छागो लम्बकर्णश्च वर्करः ॥४६८॥ शिवादेवप्रियो वस्तः स्तुभः स्याच्छगलोप्यजः। वुष्कोल्पायुश्छागलोऽपि मेनादः पर्णभोजनः ॥४६६॥ स्थागः परिक्रमसहो जावालस्त्वजजीवनः । मेध्यो मेको महागन्धो भकरश्च पयस्वलः ॥४७॥ मेषो रञोरणोर्णायुर्मेढो वृष्णिहुंडु हरः। उरभ्रो लोमशः शृङ्गी स्यादविश्चैडको बली ॥४७१॥ पुच्छपर्यायमांसार्थः स्यादेशान्तरसंभवे । कुररी स्याजाल किनी मेषी वेण्यविलारुजा ॥४७२॥ श्रविः स्त्री शिशुवाह्यः स्यादिडिश्चाथ कदम्बके । उष्ट्रच्छागोरभ्रकाणामौष्ट्रकं छागकाजके ॥४७३॥ उरभ्रकं चाथ खरः शुद्धजकश्च धूसरः । शङ्ककर्णः स्मरस्मर्यश्चक्रीवान् रासभोऽपि च ॥४७४॥ ग्राम्याश्वश्चिरमेही स्याद्वालेयो रेणुरूषितः । गर्दभः स्यादेकशफः कायिकः ऋयिकः क्रयी ॥४७॥ एते स्यु ः सार्थवाहः स्याद्वैदेशिक इत्यपि । पण्याजीवश्चापणिके व्यापारी निगमोऽपि सः ॥४७६॥
१ नु लुपाCK २ वुक्कोB ३ रभ्रे ४ मेंठोर ५ हुंडः ६ उरश्लोB ७ जालुकिनीB छागकाजकोB ६ स्मरः स्मर्यRC
२४