________________
१८४ केशवकृतः कल्पद्रुकोशः
गृष्टिः सकृत्प्रसूता स्याद्धेनुः स्त्री स्यान्नवप्रसूः। चिरप्रसूर्वष्कयणी' वस्कयण्यथ नैचिकम् ॥४५६॥ निचिकं च शिरस्तस्या बहुसूः स्यात्परेष्टुका' । दुःखदोह्या तु करटा दुर्दोह्या चाथ सुव्रता ॥४६०॥ सैवोक्ता सुखसंदोह्या पीनोधी पीवरस्तनी । स्याबद्रोणपर्यायक्षीरपर्यायिनीत्यपि ॥४६१॥ वजुली चाथ धेनुष्या द्यूतादिबन्धने स्थिता । पीतदुग्धा चाथ समां समां यातु विजायते ॥४६२॥ समांसमीनाथापीनमूधः क्लीबे तु पुंसि वा। स्यादस्त्रियां गोमयं तु पवित्रमुपलेपनम् ॥४६३॥ शुष्के तत्र करीषो ऽस्त्री त्रिषु गव्यं गवामिदम् । शिवः पुष्यलकः कीलोऽस्त्रियां संदानबन्धने ॥४६४॥ क्लीबे दामं स्त्रियां रञ्जु मन्युष्टः क्रमेलकः । वक्रग्रीवो बहुकरो वासन्तः कण्टकाशनः ॥४६५॥ तालुनाशश्च लम्बौष्ठोऽध्वगो भोलिमरुप्रियः । शलो महाङ्गश्च मयो दुर्गपर्यायलानः ॥४६६॥ द्विककुत्करभस्तु स्याव्यब्द डष्टः शिशुश्च सः। करभाः स्युः शृङ्खलकादारवैः पादबन्धनैः ॥४६७॥
१ वस्कराप्यथ नैचिकीB २ ष्ठुका B ३ घृतादिवधने Ko ४ स्यास्त्रियां गोमय गव्यं B १ करीशोB६ पुष्पलकः पुष्पलक:B पुष्कलकः सि० कौ० ७ वामKC = वहकरोCK , पयोCK १० कारOK