________________
केशवकृतः कल्पद्रुकोशः १८३ तुल्यावेकधुरीणौ द्वौ स्यातामेकधुरावहौ। स तु सर्वधुरीणः स्या'यस्तु सर्वधुरावहः ॥४५०।। गलिर्दुष्टवृषः२ स स्याद्यः समर्थोऽप्यपूर्वहः । स्थौरी पृष्ठी पृष्ठवाट् स्यात् स्कान्धिकः स्कन्धवाहिकः४५१ षोडन् द्विदन् क्रमात् षड् द्विजातदन्ते वृषेऽथ च । उस्रा स्त्रियां मही माता सुरभी सुरभिर्गवी ॥४५२॥ अनड्वाही सौरभेयी वन्दनीया च शृङ्गिणी। अर्जुन्यनडुही चेडा रोहिणी जगती महा ॥४५३॥ शृङ्गी शृङ्गिश्च माहेयी पुनरघ्न्या च गौः स्त्रियाम् । करा पाटला श्वेता शवली च निलिम्पिका ॥४५४॥ तुध्रेत्याद्यभिधास्ताः स्युराकान्ता वृषभेण या । संधिनी चाप्यथ स्त्री स्यावहद्गर्भोपघातिनी ॥४५५॥ वृषोपगा स्रवद्गर्भा वतोका संधिनी वशा । प्रजनोपसरौं कालः प्रस्रवासनकालके ॥४५६॥ काल्योपसर्या तत्कालयुताथो बालगर्भिणी। स्यात्पलिक्नी तु प्रष्ठौडामेकाब्दा त्वेकहायनी ॥४५७॥ एवं द्वित्रिचतुर्थ्यः स्या द्वर्षपर्यायवाचिका । स्यादचण्डी तु सुकरा वत्सकामा तु वत्सला ॥४५८॥
१ योवै B २ गडि सिकौ ३ काधिक: B ४ उम्रो र ५ लेडा RC ६ नीB. ७ कालेतिपाठः सर्वत्र र दद BO