________________
केशवकृतः कल्पद्रुकोशः
१८१
महो जरन्तो रक्तातो धीर' स्कन्धश्च सैरिभः । यमार्थ' वाहनार्थोऽपि कृष्णशृङ्गश्च कासरः || ४३२|| श्चङ्कः स्कन्धश्च हेरम्बो हाहः स्याद्गद्गदस्वरः । श्वर्या शव लालिकोऽथ वनोद्भवः ॥४३३ ॥ गवलो महिषी तु स्याद्धंसकाली तु सैरिभी । कलुषा" मन्दगमना महाक्षीरा पयस्विनी ॥ ४३४ ॥ जायमानविषाणाये कटा हस्तच्छिशुर्द्वयोः । गोमी गवेश्वरो गोमान् गोकुलं गोधनं धनम् ॥४३५॥ स्त्री त्रिष्वाशितं गव्यं गावो यत्राशिताः पुरा । गवीनं चाथ वृषभः शाकरो गोवृषो वृषः ॥४३६॥
१०
१
गौरनड्वान्सौरभेयः ककुद्मान्पुंगवो वृषा । उता भद्रो वलीवर्दः " शष्करिर्गन्धमैथुनः ॥४३७॥ मदको हलगोभर्त्रर्षभाः शाङ्करइट्चरः । शृङ्गी च शृङ्गिणोऽपि स्याद्वहतिर्वहतुः समौ ॥४३८॥ श्रथ स्याद्गोपतिः शण्डः शण्ठः षण्डश्च षण्ढवत् । महान्महोक्षश्चोतरश्चाथापि स्याज्जरवे ॥४३६ ॥ वृद्धोश्चापि जातोचः संजातोचश्च नूतने । गव्या गोत्रा च धेनूनां संहतौ धेनुकं पुनः ॥४४०॥
१ स्कन्दश्चB २ पयार्थ Ck ३ श्वङ्ककन्दश्च ४ रिष्वर्थो B ५ नालिको ke ६ सैरभी B ७ कालुषा b = गवीश्वरो b & यत्र kc १० शाष्करोB ११ शाक्करि B १२ हलु: B १३ क्षोक्षतर B