________________
केशवकृतः कल्पद्रुकोशः . १७९ पानीयालुरनूपालुर्नीलालुः' शुक्लकन्दकः । शुभालुर्महिषीकन्दः सपोख्यो वनवास्यपि ॥४१४॥ विषकन्दोथातिहस्तिस्थूलेभ्यः कन्दपत्रकाः । बृहत्वग्दीर्घपत्रोऽथ कृमिघ्नो वस्त्रपञ्जरः ॥४१५॥ कोलकन्दश्च पेटालुः सुपुटः पेटकन्दकः । . पिञ्जरोप्यथ वाराही ब्रह्मपुत्री च यष्टिका ॥४१६॥ विष्वक्सेनप्रिया चापि.त्रिनेत्राथ हरिप्रियः । विष्णुकन्दो विष्णुगुप्तः सुपुटो बहुसंपुटः ॥४१७॥ जलवासी बृहत्कन्दो दीर्घपत्रोऽथ धारणी । चिरपत्री धारणीया कन्दालुश्च सुकन्दकः ॥४१८॥ वनकन्दश्च कन्दाढ्यो दण्डकन्दोथ नाकुली । सर्पगन्धी रक्तपत्री सुगन्धा खरसेश्वरी ॥४१॥ संमादन्यपरा तु स्यात्सुवहा गन्धनाकुली । महासुगन्धा सर्पाक्षी फणिभुग्विषमर्दिनी ॥४२०॥ नकुलाढ्या पक्तिमालावारिभ्यः कन्द इत्ययम् । प्रन्थिपर्णा कन्दलता त्रिशिखाथ विदारिका ॥४२१॥ शीतशुक्ला खादुकन्दा गजेष्टा वाजिवल्लभा । शृगाली वृष्यगन्धा च विड़ाली वृष्यवल्यपि ॥४२२॥
१ पानीयालुरित्या पुस्तके नास्ति २ शुन्नालु KC ३ पत्रा B ४ पअरोB ५ धारिणी B ६ सर्पगन्धा B ७ सुरसेश्वरीB ८ पर्णी ६ शुक्ली B