________________
१७८
केशवकृतः कल्पद्रुकोशः सुगन्धमूला च सठी' गन्धारी पृथुपयेपि । समुद्रा तृणपूर्वापि हिमजा गन्धतो वधूः ॥४०॥ समुद्रार्थोत्तरं फेनमथ फेनं निफेनकम् । फेनं च खस्खसरसो लोहद्रावी तु टङ्कणः ॥४०६॥ रसाधिको रसन्नश्च रङ्गक्षारोऽपि रङ्गन्दः । सुभगष्टङ्कणक्षारो मलिनो धातुवल्लभः ॥४०७॥ वर्तुलः कणकः क्षारश्चाथन्यच्छ्वेतटङ्कणम् । मालतीतीरसंभूतं शिवो द्रावकरश्च सः ॥४०८॥ स्यात्कुरण्डो ग्रन्थिफलो विटपो वस्त्रभूषणः । हिमावली च हृद्धात्री कुष्ठनो रागकुष्ठकः ॥४०६॥ ग्रन्थिलोङ्गारग्रन्थिः स्यात्सुवर्चास्तु सुवर्चिकः । स्वर्जिकः स्वर्चिकक्षारो लवणासुरमेदजे ॥४१०॥ जलजं लवणक्षारमथ पाक्यो यवाग्रजः । यवसारो यताह्वः स्याद्यवशूकोऽथ षण सरम् ॥४११॥ वज्रक्षारं च धूमोत्थं क्षारश्चेष्टं विदारकम् । वज्रकं स्यादथ पुनर्मलारिः क्षारमेलकः ॥४१२॥ सर्वक्षारो बहुक्षारो महाक्षारोऽथ मायिका। मायाफलं मायिफलमपिच्छिद्राफलं पुनः ॥४१३॥ १ सटी B २ नफेनकम् B महिफेने निफेनकमिति पाठः स्यात्३ स्वसृवशीरम् ।B ४ कुष्टमोरागकुष्ठकः B ५ शोर श्रेष्ठमिति स्यात् जीवश्रेष्ठं B ६ छिन B