________________
केशवकृतः कल्पद्रुकोशः
'भिषग्भद्रावर्त्तका च भद्रा दन्ती' जयावहा । चराङ्गी र सारकस्त्वस्त्री जयपालोऽपि रेचकः ॥ ३६६ ॥ दन्ती बीजं मलद्रावि तिन्तिडी फलमित्यपि । कुम्भी घण्टाभवं बीजमथ मालविका त्रिवृत् ॥ ३६७॥ श्यामार्द्धचन्द्रा विदला कालिङ्गी कालमेष्यपि । मसूरा सुषणी काली त्रिवेला स्यादथापरा ॥ ३६८ ॥ कालिन्दी त्रिपुटा काकनासिका ताम्रपुष्प्यपि । श्रमृताथ त्वचं भृङ्गं वल्कं वल्कलमित्यापि ॥ ३६६ ॥ कलशं सिंहलं वन्यं वराङ्गी मुखशोधनम् । बहुगन्धं च सुरसमुत्कटं रामवल्लभम् ॥४०० ॥ तदेवोक्तं विज्जलं स्यालटवर्ण* नवप्रियम् । गन्धवल्कं तापसं तु सुरगन्धं च गोपनम् ॥ ४०१ ॥ सुकुमारं च पत्राह्वमंशुकाहं च पत्रकम् । तमालपत्रमथ च किञ्जल्कं कनकाह्वयम् ॥ ४०२ ॥ चाम्पेयं नागपर्यायकेसरे नागनामकम् । स्यान्निर्विषा त्यपविषा विषहन्त्री विषादिनी ॥ ४०३ ॥ महौषधं विषं चाग्रं वत्सनाभः पुमानयम् । नागपर्यायकश्चाथ षड्ग्रन्थाम्लनिशा वधूः ॥ ४०४ ॥
१७७
१ भद्रदन्ती २ ज्वराङ्गी ३ दन्ति B ४ विजुलं Ke & ल्लुटप ६ तव C ७ तूप K
२३