________________
१७६
केशवकृतः कल्पद्रुकोशः
गाङ्गेया' वनजा राजकसेरुः कच्छजापि सा । श्रन्या नागरमुस्तास्यात्सैव प्रोक्ता घनार्थका ॥ ३८७॥ नगरोत्था च चक्राङ्गा पिण्डमुस्ता कलापिनी । नादेयी शिशिरापि स्याच्चूडाला वासकेसरा ॥ ३८८ ॥ ध्वाङ्क्ष्युच्चटा कचरुहा मधुकं तु मधुस्रवा । मधुवल्ली मधूक षण् यष्ट्याहं यष्टिकामधु ॥ ३८ ॥ श्रथान्यत् क्लितनीयं स्यात् क्कीतनं मधुवल्ल्यपि । शोषा पहा मधुरसा सातिसौम्या मधूल्यपि ॥ ३६० ॥ भाग गर्दभवली स्यात् फञ्जिकाङ्गारवल्लरी | सुरूपा भ्रमरेष्टापि शक्रमाताथ मूलके ॥ ३६९ ॥ वीरं पुष्करमूलं स्यात् पौष्करं पद्मपत्रकम् । सारिपक्षं ब्रह्मतीर्थ शृङ्गी तु वनमूर्द्धजा ॥३६२॥ कुलीरशृङ्गी चक्राङ्गी घोषा चण्डा कलिङ्गका । महाघोषा चेन्दुखडा कर्कराह्ना' लताङ्गयपि ॥ ३६३॥ निकुम्भो तु श्योनघण्टा नागस्फेोता" च रेचनी । भद्रा रूक्षा पवित्रा स्यादनुकूला विशोधनी ॥ ३६४ ॥ एरण्डफलपत्रापि विशल्या तरुणीत्यपि । उदुम्बरदला कुम्भी साथ केशरुहापर ॥ ३६५॥
१ गाङ्गेयो वनजो २ निदेयीK ३ क्लीवनम् B ४ वहतिपाठः सर्वत्र ५ भोगीB ६ कर्कटाह्वेतिपाठः स्यात् ७ सूताB = सूक्ष्माB