________________
१७४. केशवकृतः कल्पद्रुकोशः
मञ्जिष्ठा हरिणी रक्ता गौरी योजनवल्लयपि । मङ्गला विकसा पद्मा रोहिणी कालमेषिका ॥३६६॥ भंडी चित्रलता चित्रा चित्राङ्गो जननी' च सा । मण्डूकपर्णी विजया रागाढ्या' रक्तयष्टिका ॥३७॥ ज्वरहन्त्र्यरुणा छत्रा भण्डीरी वस्त्रभूषणा । रागाङ्गी चाभिमण्डीर लता नागकुमार्यपि ॥३७१॥ सिंहली योजनी कौन्ती चोलो ना स चतुर्विधः । लाक्षा खदिरिका रक्ता रङ्गमाता पलंकषा ॥३७२॥ जतुरस्त्री कृमिघ्नी स्त्री द्रुमार्थादामयार्थकः । दीप्तिः पलाशी जतुका जतूका गन्धमादिनी ॥३७३॥ पित्तघ्नी स्याद्रवरसा लक्तको मुद्रिणी च सा । निर्भर्त्सनो जतुरसो जननी जनकार्यपि ॥३७४॥ चक्रवर्तिनी संघर्षा लोध्रो रोधश्च शांवरः। हेतुपुष्पः काण्डचीलस्तिलको हस्तिलोधकः॥३७५॥ तिरीटस्तिलको भिल्लतरुश्चाथ बृहद्वलः। कटुकः पट्टिकारोधः' पट्टी लाक्षाप्रसादनः ॥३७६॥ वल्कलोधो बृहद्वक्रः शीर्णवल्कोतिभेषजम् । मालवो जीर्णबुध्नोऽपि वह्निपुष्पी तु धातकी ॥३७७॥
१ जधाननी K २ राथा KE ३ भण्डारी KE ४ चापि भण्डीरेति पाठःस्यात् ५ चालो B६ जंतका K सर्वषा B ७ सघर्षा K८ हेतK B • ६ रोध्रा १० मालवः श्रम