________________
केशवकृतः कल्पद्रुकोशः १७३ गन्धपत्री गन्धदला मयूरी वह्निदीपिका। शिखिमोदा प्रमोदाढ्या ब्रह्मको शा च मोदिनी ॥३६०॥ फलमुख्या गन्धरता विशाला चाथ नन्दिनी। रेणुका कपिला कान्ता महिला राजपुत्र्यपि ॥३६१॥ हरेणुकायां' दुष्पुत्रा द्विजा रेणुर्हिमा धवा । धर्मिणी कपिला नृत्ता शान्ता हैमवती ह्युमा ॥३६२॥ अस्त्री रक्तापहं बोलं सौरलं रक्त गन्धिकम् । रसगन्धं महागन्धं सुरसं पिण्डिकं विषम् ॥३६३॥ निर्लोहं वर्वरं मुण्डं विश्वं गन्धरसं पुनः । विश्वगन्धं व्रणारिः स्यात् स्मृत्याह्वमथ दुर्लभः ॥३६४॥ क—रो द्राविडः काशो जटालो गन्धमूलकः । वेधमुख्यो गन्धसार स्तवतीरं तु तालजम् ॥३६५॥ गोधूमजं पिष्टिकोत्थं पवनं तण्डुलोद्भवम् । वनगोदुग्धजं चापि पयः क्षीरमथापि च ॥३६६॥ तालीसपत्रं तालीसमन्नायं च शुकोदरम् । धात्रीपत्रं चार्कवेधं करिपत्रं तमाह्वयम् ॥३६७॥ तालं नीलाम्बरं । नीलं तुङ्गा तु ६ वंशरोचना । क्षीरी वांशीच शुभ्रापि वनेन्दुवंशशर्करा ॥३६८॥
१ हरेणुका पाण्डुपुत्राणु हरेणुका पाण्डुपुत्रीB २ सौरत्नं रत्न B ३ सारः सवKC ४ यवनंB५ वायि नीलंचरं B ६ तुङ्गनुर्वश K