________________
केशवकृतः कल्पद्रुकोशः १६७ पृथगुत्यैकयोक्तया च कशिपुः स्यान्न च स्त्रियाम् । भुक्तयाच्छादनयोरेवमथान्नेच्छाविवर्जिते ॥३०६॥ तृप्तस्तु सुहिता' घस्ताशितास्तृप्तिस्तु तर्पणम् । खादाघ्राणं च सौहित्यमथ पिण्डोलिका स्त्रियाम् ॥३०७॥ फेला फेली भुक्तशेषे विघसोनर्यथेन्दुकः। . सजग्धिश्च ससग्धिश्च तुल्यानां सहभोजने ॥३०८॥ सधर्मिणां तु संभूय भोजनं गणचक्रकम् । तुल्यपाने सपीतिः स्त्री तर्षे तातृट् तृषे स्त्रियौ ॥३०॥ तृष्णोदन्या पिपासा स्यादम्बुपर्यायतः स्पृहा । वैकालिकं रात्रिभोज्य स्वल्पके न द्वयोरथ ॥३१०॥ भुक्तस्योपरि यद्भुक्तं तदध्यशनमित्यपि । श्रीरामणं कल्यवर्तः प्रात ज्येल्पके पुमान् ॥३११॥ गुल्यस्तु मधुरो मिष्टः स्वादुज्येष्ठो मधूलकः । व्याप्नुवल्लिम्पतीवास्यं सचेक्ष्वादावथामुकः ॥३१२॥ खटवरः पावनः खट्टो दन्तपर्यायतः शठः । श्रमः समुखगः स्रावं स्वेदनं च विबोधनम् ॥३१३॥ दन्तानां हर्षणं दाहं विधत्ते मुखकण्ठयोः । स च जम्बीरनिम्ब्वादावथ सर्वरसः पटुः ॥३१॥
१ याताKO २ नर्थडक;B ३ व्वल्पके RC प्यल्पकेB४ भारामणंB ५ पिण्ड:B * पाचन इति स्यात् ।