________________
१६८ केशवकृतः कल्पद्रुकोशः
क्षारोपि लवणः सोपि प्रलिम्पन्विदहन्मुखम् । विष्यन्दयन्लाघवयन् क्लेदयन्सैन्धवादिषु ॥३१५॥ संदृश्यतेथ कटुको मुखपर्यायभेद्यपि । संवेजयद्यो रसनां निपाते तुदतीव च ॥३१६॥ विदहन्मुखनासाक्षि संस्रावी मरिचादिषु । दृश्यतेथापि तिक्तस्तु मुखपर्यायभेद्यपि ॥३१७॥ प्रतिहन्ति निपाते यो रसनं स्वदते न च । स चायं मुखवैशयशोषप्रह्लादकारकः ॥३१८॥ बिम्बादौ दृश्यते साथ तूवरो रसनाशठः । तुवरोपि कषायः स्यादस्त्रियां स्यात्स चोत्तरः ॥३१६॥ वेशद्यस्तम्भजाड्यो रसनं योजयेद्रसः । बध्नातीव च यः कण्ठं स दृश्यस्तिन्दुकादिषु ॥३२०॥ अमीषां त्रिषु वस्तूनि भेदा एषामनुक्रमात् । मधुरामक्षारकटुतिक्ता एकैकमूनिताः ॥३२१॥ द्विकाः पञ्चदशैव स्युर्दशषटत्येकसंमिताः । मधुरोमुश्च लवणः कटुकश्चेति ते त्रिकाः ॥३२२॥ विंशतिर्मधुरामाह्व'लवणेभ्यः कटुः पुनः । तिक्तः कषायो गुल्याम्ललवणेभ्यः प्रयोजितः ॥३२३॥