________________
१६४ केशवकृतः कल्पद्रुकोशः यथाकथंचित्समितां सुपक्वां परिचूर्णयेत् । सिताघृताभ्यां संयुक्त दलजेो दलमोदकः ॥२७॥ घृतमर्दिततोयाईसमितां चमसीघृते । पक्कां घृते सिता मिश्रा चमसी संभवाभिधाम् ॥२८॥ अपूपचूर्णे सगुडे चूरीमोदक इत्ययम् । पिष्टे घृतगुडोन्मिश्रे लोपकोथ पुनर्पते ॥२८१॥ गुडेनेकरसीभूते समितां तत्र पाचयेत् । गुडपर्पटकः स स्यापिष्टी माषादिसंभवाम् ॥२८२॥ घृतपक्कां शर्कराढ्यां स तु माषादिमोदकः। जलेनालोडितं शालिपिष्टं खण्डविमिश्रितम् ॥२८३॥ धाराप्तपकवत्पाच्य वर्वरं चाथ चिकणम् । मतृणं कर्क स्निग्धं पिच्छिलं विजिलं पुनः ॥२८॥ विजलं स्याद्विजिविलमय संमृष्टशोधिते। भावितं वासितं चापि धूपिते वस्तुनि त्रिषु ॥२८५॥ मसृणायं तथोदश्विदौदश्वित्कमतोपि च । उदश्वितं स्यादटके त्ववसे किममस्त्रियाम् ॥२८६॥ निक्काथो रसकस्तुल्यावथ स्याटेसवारकः । शुण्ठीमरिचवैदेहीधान्यकाजाजिदाडिमः ॥२८६॥
, वयर : २ वा ३ दौर्दश्वित? स्ववसंकित ५ निकाथरसको उत्पाB पारिमैःB