________________
१६२ केशवकृतः कल्पद्रुकोशः पिष्टवर्तिस्तु चमसी सूचिका सेविका पुनः । पक्वेऽपूपः पिष्टकः स्यात्पूपिका पूलिका स्त्रियाम् ॥२६१॥ पूपली चर्पटा पोली पूलिकावद्विपाचिते । पूपो घृतप्लुते पिष्टे समिता गुडवारिणा ॥२६२॥ घृते वाप्यथवा तैले चक्राकारा सुपिष्टिका । भर्जिता वटको नास्या दवसेकिम इत्यपि ॥२६३॥ मिश्रा मण्डलिका पक्का सम्यगायसखर्परे । घृतप्लुते पूरकः स्यादेवं मुद्गादिपिष्टजः ॥२६४॥ माषादि पिष्टका सिद्धः सूर्णकः पुनपुंसकः । पिढ्यां तु स्वेदपक्वायां मिंडूरं स्याद्वयोरथ ॥२६५॥ भ्रष्टा तुल्ये घृते तप्ते समिता तुल्य शर्करे। श्रत्युष्णैरम्बुभिः पक्का त्रिसरा लप्सिका च सा ॥२६६॥ घृताक्तसमिता पूपं घृते तप्ते मनाक शृतम् । लघुदीप्ता खरतरा घृतपक्कादधिष्टरः ॥२६७॥ चणचूर्णाष्टांशयुता सा पूरी तण्डुलोद्भवैः । पिष्टैघृतघनीभूतैर्गोलके समिताभवे ॥२६८॥ वेष्टिते स्थूलपूपाभे घृतपक्वे तु खाद्यकः । चन्द्रबिम्बाकृति तद्वत्फेणिकं तु फणिज्जकम् ॥३६६॥
। सिद्धस्तूर्णक:B0 २ मिन्दुर B ३ शर्करैःB ४ सुप्सिका