________________
केशवकृतः कल्पद्रुकोशः . १६१ फलमूलसमांशो यः कटवम्लो विमलो रसः । घृतेन मर्दितां तोयैः समितां मृदुलमर्दयेत् ॥२५२॥ मातुलुङ्गत्वचा खण्डपक्कमाईकपूरितम् । विधाय पूपकं वृत्तं गन्धाढ्यं केसरान्वितम् ॥२५३॥ पत्का सर्पिषि खण्डे 'वगाहितो मधुशीर्षकः । समितां मधुदुग्धेन मोदयित्वा सुशोभनाम् ॥२५४॥ पचेघृतोत्तरे खण्डे न्यसेत्पक्वे नवे घटे। ततो मरिचपक्वैलाखण्डचूर्णावचूर्णितम् ॥२५५॥ कुर्यात्कर्पूरसंयुक्तं संयावमथ शष्कुली। शालूकमध्यसंयुक्तः शालिकोद्रवतण्डुलैः ॥२५६॥ संपिष्टस्तिलसंयुक्तः लोहभ्रष्टैस्ततः परम् । . स्थाली खर्परसच्छिद्रखर्परायसखपरैः ॥२५७॥ अङ्गारैरपि पिष्टान्नपाकः स्यादथ भास्करी । चन्द्रिका रोटि कावृत्ता पिष्टखर्परसंभवा ॥२५८॥ महान्तो विस्तृताः सूक्ष्माः कर्परादिषु पाचिताः । स्युर्मण्डका मण्डलिनः स्थूलाः पूपलिका स्त्रियाम्॥२५६॥ 'प्रथाङ्गारेषु संपक्कः सूक्ष्मः सोङ्गारमण्डकः । अङ्गारकर्कटी स्थूलाऽथाप्यपक्वे तु पोलिका ॥२६०॥ , खण्डेचB २ यथा Kc * भर्जयेदिति पाठः स्यात् ।