________________
१६० केशवकृतः कल्पद्रुकोशः तिलतण्डुलमाषाणां या सा संयोगसंभवा । भूतोदनो दधिनिशा सक्तुलाजतिलान्वितः ॥२४३॥ 'बाह्योदनो यावकः स्याद्यवैः स्विन्नैश्च निस्तुषैः। दलितैर्यवगोधूमः स्थूला सा समिता स्त्रियाम् ॥२४४॥ वाटः पुमांस्तत्र गुडसंमिश्रे कृसरः पुमान् । "तृसरस्तण्डुलैः सिद्धैः सगुडैः सोप्यथापरः ॥२४५॥ तप्ते घृते विनिक्षिप्य समितां भर्जितां मनाक् । ततस्तत्र विनिक्षिप्य खण्डं तेन समं पचेत् ॥२४६॥ कृसरं तं कसारं च कंसारमिति केचन । षोडशांशमिते दुग्धे तण्डुलानां पले शनैः ॥२४७॥ सम्यक संसाधिते क्लीबे परमान्न ततस्त्रियाम् ।
क्षीरेयी पायसः पुंसि क्लीबे दुग्धार्थत श्चरु ॥२४॥ विलेपी घनसिक्या स्त्री स्विन्ना तोये चतुर्गुणा। पेया सिक्थयुता पथ्या चतुर्दशगुणेऽम्भसि । ॥२४६॥ अष्टादशगुणे तोये श्रितो यूषस्तु शिम्बिजैः। एवं मांसरसो मांसैर्मासयूषस्तु सस्मृतः ॥२५०॥ सस्यात्कृताख्यो लवणकटुस्नेहादिनायुतः। अकृतः स्यात्तद्रहितोप्यथ काम्बलिकः खलः ॥२५१॥
, पाक्योB २ पावकB : ३ स्तुB ४ कृशरःB५ तसरB६ चीरेपिर०७ चश्रु:B