________________
केशवकृतः कल्पद्रुकोशः १५६ पादाम्बुतक्रमर्झम्बूदश्विद्वयांशाम्भसायुतम् । कालसेयं द्वयं सार्द्धजलदण्डाहतं कमात् ॥२३४॥ अरिष्टमस्त्रियां क्लीबे रसायनविलोडिते। अर्शोन्न सारणं श्वेतं कवचं चाथ मन्थरः ॥२३५॥ दधिचारोऽपि वैशाखस्तक्राटः करघर्षणः । मन्थो मन्थनमन्थानखजाः पुंसि नपुंसके ॥२३६॥ मन्थदण्डोऽथ तद्रजौ नेत्रं क्लीबे ततः पुनः । स्त्रियां भिस्सानमन्धः षण्जीवनं स्यात्प्रसाधनम्॥२३७॥ कीलालमायुरशनमन्नायं भोज्यमित्यपि । वाजः परित्रुतमपि दीदिविश्वास्त्रियां पुनः ॥२३८॥ अस्त्रियामोदनः कूरो भक्तो दग्धे तु भिःसटा । दग्धिका चाथ मण्डोऽस्त्री भक्तमण्डे स्रवः पुमान् ॥२३६॥ स्राम श्राचमनिः नाममसाराः प्रस्नवः पुनः । युक्तया संसाधिते सूदैः शिम्ब्यन्ने प्रहितोऽस्त्रियाम्।२४०। दालिः स्त्रियां पुंसि सूपो दाली स्याल्लवणान्विते । शूकशिंविभवैभन्यैः संमिश्री मिश्रितोदनः ।२४१॥ खिच्ची खिच्चे उभे स्त्रीत्वे सुसिद्धा षड्गुणाम्भसि । स्त्रियां यवागूविरलद्रवान कृशरोऽस्त्रियाम् ॥२४२॥
, शेयं B २ स्तकार:KC ३ मथो B ४ परिस्तुत: ५ दीदिविः श्चास्त्रियां KC ६माचामB . प्रसवः B ८ सासिद्धाB ६ षड्गुणेB १० कृशरा।