________________
१५८ केशवकृतः कल्पद्रुकोशः दुग्धं प्रस्रवणं धारि सौम्यमूधस्यमित्यपि। पयोमृतं तन्नारीणां दुग्धेस्तन्यमतः परम् ॥२२५॥ अविरिशमविरीशमविसोढमवेः पयः। मृतक्षीरोपरिभवा घना संतानिका स्त्रियाम् ॥२२६॥ सद्यः प्रसृतायाः क्षीरं पीयूषोऽभिनवं पयः । पेयूषो मलिनं क्लीबे घनं स्यादथ मोरटम् ॥२२७॥
आसप्ताहादथ दधि मङ्गल्यं क्षीरसंभवम् । विरलं तज्जलं मस्तु क्लीबथो कट्वरः सरः ।।२२८॥ दध्युत्तरो दधिस्नेहो दध्यग्रमथ कूचिका । दना तक्रेण च क्षीरे पक्व स्यादधितकयोः ॥२२६॥ उत्तराथ क्षीरशरा शर्करा सहिता स्त्रियाम् । सुबद्धं घनवस्त्रेण दधिभावविवर्जितम् ॥२३०॥ पिण्डीभूतं यद्दधिस्यादधिपिण्डः स उच्यते । एवं तके तक्रपिण्डो दधिदुग्धविमिश्रितम् ॥२३१॥ चतुर्जातसिताशुण्ठीमरिचैलासमन्वितम् । दृढेन शुभ्रवस्त्रण गालितं केसरान्वितम् ॥२३२॥ मार्जिता सा रसाला स्याच्छिखरि'ण्यथ गोरसः । सरसं निर्जलं घोलं मथितं रसवर्जितम् ॥२३३॥
१ मोरणम्kc २ ण्यपि गोरसेB