________________
केशवकृतः कल्पद्रुकोशः
स सुधामोदकोऽथ स्यात्तवराजसमुद्भवे । खण्डे खण्डेोद्भवोद्भूतः सुधामादकतश्च सः ॥२१६॥ ससिद्धमोदकोऽपि स्यात्स चैवामृतसारजः । वर्त्तिकाश' श्चिवटकाः शर्करालिङ्गकादयः ॥ २९७॥ विकाराः खण्डजाश्चाथ सिकता तु सितोपला । श्रहिच्छत्रो 'पलाका स्याद्विकारा इतुजा मी ॥२१८॥ यावनालरसोत्थोन्यो नारिकेलीरसोद्भवः । खर्जूरीरसजस्तालीरसजेोऽपि गुडेोभवेत् ॥ २१६ ॥ शर्करा चापि सा तु स्यान्मधुजा मधुशर्करा । शीता जात्या माधवी स्यात्सोक्ता माक्षीक शर्करा ॥ २२० यावनाली हिमोत्पन्ना हिमानी हिमशर्करा । स्यात्नुद्रशर्करा क्षुद्रा गुडजा जलबिन्दुजा ॥ २२१॥ हैयङ्गवीनं 'सरजं क्षीरोत्थं दधिसंभवम् ।
मन्थजं नवनीतं स्यात्सारोत्थाभ्यञ्जनं घृतम् ॥२२२॥ सर्पिरायुस्तैजसं स्यात् म्रक्षणं स्नेहनं पुनः । अमृताहूं जीवनीयं पवित्रं नवनीतजम् ॥ २२३॥ होमोत्तमार्थं स्यादस्याघाराभिघा रणौ ।
मले घृतस्य विलयोथास्त्री तीरं तु जीवनम् ॥ २२४॥
१५७
१ श्ववटकाः B२ पलाका B ३ नारीकेला B ४ माक्षिकB ५ लचB ६ शरK दस्त्रया Bi = रकौB & स्याB