________________
केशवकृतः कल्पद्रुकोशः १५५ उग्रवीर्य च'वाहीकं हिङ्गुदीप्ता स्त्रियां पुनः। भूतारिरुपगन्धा स्यादथ स्यात् हिङ्गुनाडिका ॥१६॥ पलाशाजन्तुका वंशपत्री रामठिका च सा । स्यात्पिङ्गाह्वा सुवीर्याथ शतवेधि तु काञ्जिकम् ॥१६॥ स्त्रियां क्लीबे काञ्जिका स्त्री न स्त्रियामम्लसारकः । श्रवन्तिसोमोभिषुतो धान्या म्लश्चारनालकः ॥२००॥ *कुल्माषाभिषवोपि स्यादुन्नाह कुण्डगोलिकम् । रक्षोनमपि कुल्माषं गृहाम्लं स्यान्महारसम्॥२०१॥ .. कुञ्जनं कुलजं सिद्धसलिलं धातुनाशनम् । श्रारनालं च धान्याम्लं यवजं तु यवोदकम् ॥२०२॥ गोधूमजं तुसौवीरं तुषोत्थं तु तुषोदकम् । द्विरुत्तरं मधुगुडकाञ्जिकं मस्तु धान्य कम् ॥२०३॥ चुकं शुक्रं तदेव स्यात्कणा मधुसमत्वितम् । मधुचुक्रं न स्त्रियां स्यात्रिषु तद्वति वस्तुनि ॥२०४॥ जम्बीररसधान्याम्ला वामासं क्षौद्रभाण्डगौ। धान्याम्लसंज्ञमेवं स्यादथ वेध्याम्लवेतसः ॥२०५॥ अम्लो रसाम्लो राजाम्लः शतवेध्यम्लनायकः । अम्लसारो रक्तसारो भीमः स्याद्वीरवेतसः ॥२०६॥ । बाल्हीक २ जतुका ३ च ४ म्लंचाB ५ कल्माषाभिभवोर० ६ धान्यगम्।
७ वामासB