________________
केशवकृतः कल्पद्रुकोशः
पृथ्वीजं गण्डलवणमथान्यल्लवणाब्धिजम् । शिवं वशिरमतीवं सामुद्रमथ 'वार्मयम् ॥ १८९ ॥ * द्रौणेयं वारिजं चापि त्रिकूटलवणं पुनः ।
थोरं सार्वगणं संसर्गलवणार्थकम् ॥१८२॥ स्यान्मिश्रं बहुलवण मथौर्वसहमैरिणम् । वसुपांशु च वसुकं पांव रोमकं पुनः ॥ १८३॥ उद्भवं चोषरमथ स्त्रियां शुण्ठी महौषधम् । कटूषणं कटुग्रन्थि नागरं विश्वभेषजम् ॥ १८४ ॥ कटुभङ्ग ं विश्वमथ शृङ्गवेरार्द्रके पुनः । सौपर्ण गुल्ममूलं स्यात्कफारिकन्दरं वरम् ॥१८५॥ सैकतेष्टमनूपोत्थं महीजमथ कोलकम् ।
मरीचं मरिचं चापि मिरीचं मिरिचं पुनः ॥ १८६॥ यवनेष्ट ं वृत्तफलं शाकाङ्ग धर्मपत्तनम् ।
"ε
१०
'वल्लीजमूषणं वीरं पलितं कटुकं च तत् ॥ १८७॥ कृष्णं मृष्टं सर्वहितं कफवैर्यथ तत्सिते ।
वश्यंकरं च बहुलं वालकं चन्द्रकं च तत् ॥ १८८॥ धान्याकं धान्यकं धान्य धान्येयं धनिकं समम् ।
१५३
११
१ वार्भयम् B ६ चरम् ७ कौलकम् B १० वलीज B ११ धानेयं B
K
२०
१२ उरुवरुर्ना वरी स्त्री छत्रधान्यं वितुन्नकम् ॥ १८६॥
9
२ द्रोणेय B ३ सावगणं B
४ बहुलवण B ५ रौमकं B ८ शाकाद्यं B 8 धर्बपत्तनम् KC धार्मपात्तनम् B १२ उरुर्षरुनीवरी B