________________
१५२ केशवकृतः कल्पद्रुकोशः जीवन्ती स्त्री रक्तनालस्ताम्रपत्रः सनालकः । शाकवीरो जीवशाको मेषोऽथ षण सुगन्धिकम् ॥१७॥ गौरं स्वर्ण गन्धशाकं कटु'शृङ्गाटमित्यपि । भूवारिजं वर्णशाकः शिग्रुपत्राणि जीवनी ॥१७३॥ तर्कारी वसुकः पद्मा वर्षाभूश्चैव फञ्जिका । तण्डुलीयकचाङ्गेरीकुसुम्भराजिसर्षपाः ॥१७४॥ कुडा तिन्दुकः फेडा त्रिपुटाद्याः क्रमादमी । पत्रशाका अङ्करितं शिम्बिधान्यं विरूढकम् ॥१७॥ भूमिस्फोटस्तु कवकं छत्राकं स्याच्छिलीन्ध्रकम् । सैन्धवोऽस्त्री शीतशिवं नादेयः सितसिन्धुजम् ॥१७६॥ पटूत्तर वरं शुद्धं धौतेयं च शिलात्मजम् । विमलं मणिमन्थं स्या'च्छिवं भाष्यं पचा स्त्रियाम् ॥१७७ सौवर्चलं हृद्यगन्धं रुचिकं तिलकं पुनः । जरणं कृष्णलवण मक्ष्यं कोद्रविकं पुनः ॥१७॥ रुच्यं स्यादथ नीलं षण् काचकोचोद्भवं पुनः । गालक्यजं हृद्यगन्धं कुरुविन्दमथो विडम् ॥१७॥ खण्डं द्राविडकं क्षारं कृतकं धूर्तमासुरम् । सुपाक्यमथ शुभ्रं तु महारम् च"संवरम् ॥१८०॥
१ शृङ्गारB २ शिम्ब ३ शितिशिग्रुजम् ४ च्छिम्बमाषB रुचितं रुचकB ६ मत्स्य B ७ काचः काचोद्भवःपुनःBB पालक्यजB | कवक १०सांवरम् सावरम्