________________
केशवकृतः कल्पद्रुकोशः १४७ तत्र रक्त दीर्घपत्रो यवनेष्टश्च गृञ्जनः । स्थूलकन्दः पलाण्डुस्तु तीक्ष्णकन्दश्च दीपनः ॥१२६॥ मुखादूषणगन्धाह्वः शूद्रपर्यायतः प्रियः। स्त्रिया'मुल्ली कृमिहरो बहुपत्रो विरोचनः ॥१३०॥ विश्रगन्धः स च श्वेतः पीतो राजपलाण्डुकः । यवनेष्टो दीर्घपत्रो राजपर्यायतः प्रियः ॥१३१॥ कण्डूरः सूरणः कन्दो मुकन्दः स्थूलकन्दकः । दुर्नामारिवृत्त कन्दो वातारिः स्कन्दवर्धनः ॥१३२॥ रुव्यकन्दस्तीब्रकन्दः शूरकन्दः सितोपरः। सच वन्योप्यतोन्यः स्यादकण्डूरोऽपि पूर्ववत् ॥१३३॥ अम्लिका स्वल्पविटपा सुकुमाराम्ल'नामिका । अर्थोहिताम्लिकाकन्दः फलकन्दोऽपि चेष्यते ॥१३४॥ मुखालुमण्डपारोही दीर्घकन्दः सुकन्दकः । स्यात्स्वादुस्थूलवत्सेभ्यः कन्दः स्यादथ रोमशः ॥१३५॥ पिण्डालुप्रैथिलः पिण्डकन्दस्ताम्बूलपत्रकः । लोमशः पित्तकोपि स्यान्नानाकन्दोऽथ लोहिते॥१३६॥ रक्तपिण्डो लोहितालुः कासकन्दस्तु कन्दिलः । विशालपत्रालुः स्यात्कासालुः स्यादथापि च ॥१३७॥
। मूल्लीB २ पुत्रो B ३ वृत्र RC ४ नासिका RC नाडिका B ५ भंडपा B