________________
१४६
केशवकृतः कल्पद्रुकोशः
मुखामादः श्वेतशिौ मुखभङ्गश्च रोचनः । सुमूलः श्वेतमरिचस्तीक्ष्णः स्यादथ रक्तके ॥१२०॥ मधुरो मधुशिग्रुः स्यात्सुगन्धो बहुलच्छदः । श्रपि केसरिपर्यायोप्यथ वेणुर्महाबलः ॥ १२१ ॥ तृणकेतुर्यवफलो वंशः कर्मार इत्यपि । शतपर्वा दृढग्रन्थिर्मसूरोप्याढकीफलः ॥ १२२॥ सारशून्यो मस्करः स्यात्त्वकसारोऽपि धनुद्रुमः । त्वचिसारोपि तद्वत्स्यात् तेजना रम्भ इत्यपि ॥ १२३॥ सच्छिद्रा: कीचकास्ते स्युर्ये स्वनन्त्यनिलेरिताः । 'भोरटं पूरणं वंशात्तन्मूलेथ तदङ्करे ॥ १२४॥
स्त्री करीरो वंशानं तद् ग्रन्थौ तु द्वयोः परुः । पर्वा स्त्री काण्डसन्धिर्ना परुः पारु त्वगस्य तु ॥ १२५ ॥ तमालः पुंसि चाथ स्यान्मृदुपर्वा तु वेत्रकः । योगिदण्डः सुदण्डोऽथ माकन्दी बहुमूलिका ॥ १२६ ॥ मदनी गन्धमूली स्याद्राका विशदमूलिका । सौली वनहरिद्रायां वनारिष्टाथ पेडका ॥ १२७॥ 'वन्यार्द्रकाथो रसोने लशुनो 'रशुनोऽस्त्रियाम् । उग्रगन्धो म्लेच्छकन्दो भूतघ्नः षण्महौषधम् ॥१२८॥
१ मोरटंB २ विषम B ३ पेडुका पेंडका B ४ वन्याद्राका B
५ लशुना B