________________
केशवकृतः कल्पद्रुकोशः
क्षुब्धस्तदर्गले तु स्यात्कुठरोप्यथ मर्कटी । स्त्रियां प्रत्यर्गले नेत्रं क्लीवे व्यावर्त्तनं च तत् ॥ १११ ॥ मूलकन्दकरीराग्रफल' काण्डविरूढकैः । त्वक पत्रककैरेवं शाको दशविधः स्मृतः ॥ ११२ ॥ स्वदनं व्यञ्जनं क्लीवे तेमनं स्यादजामिकृत् । मूलarsat नीलकण्ठो मृत्तारः कन्दमूलकः ॥ ११३ ॥ हस्तिदन्तः शङ्खमूलो हरित्पर्णः सितोऽपि च । रुचिरोथ स्थूलमूलः स च चाणक्यमूलकः ॥११४॥ विष्णुगुप्तो महाकन्दो वालेया मरुसम्भवः । शालाककटुकश्चापि कौटिल्यश्चाथ गृञ्जनः ॥११५॥ यवनेष्टः शिरामूलो ग्रन्थिमूलोऽपि वर्तुलः । शिखाकन्दः पिण्डमूलो' गजाण्डः पिण्डकः पुनः ॥ ११६ ॥ अथ षण गर्जरं पीतमूलं स्यात्पीतकन्दकम् । सुम्लं स्वादुकन्दं च नारङ्गमथ शिशुकः ॥११७॥ हरिच्छाकः शाकपत्रः सुपत्रश्चोपदंशकः । बहुमूलो दशमूलः "कामलच्छद इत्यपि ॥ ११८ ॥ तीक्ष्णमूलो नीलशिग्रौ तीक्ष्णगन्धो जनप्रियः । शोभाञ्जनस्तत्र कृष्णे रुचिराञ्जन इत्यपि ॥ ११६॥
१ काण्डापिकाढकैः B २ खदनं व्यञ्जनं B ३ गजाङ्गः B तीक्ष्णगन्ध इत्यारभ्य श्वेतशिप्रावित्यन्तं B पुस्तके नास्ति ।
१६
१४५
४ कामच्छादं B
५