________________
केशवकृतः कल्पद्रुकोशः
१२६
विस्फारो धनुषः स्वाने' विष्फारोऽपि निगद्यते । प्रसभं तु बलात्कारे छलितं तु छलं च षण ॥३६०॥ श्रजन्यमस्त्री चोत्पात उपसर्गोऽथ कश्मलम् । मूर्छा माहोथ विजयोऽभ्यवस्कन्दनमित्यपि ॥ ३६१॥ जयोभ्यासादनं च स्यादप्यथो वैरशोधनम् । वैर शुद्धिः प्रतीकारः प्रतिकारस्ततः पुनः ॥३६२॥ विसंप्रोद्भव द्रवद्रवौ वैरनिर्यातनं च षणू । स्त्री शृगाल्यपयानं षण् पलायनमपक्रमः ॥ ३६३॥ पराजयेो रणे भङ्गो हारिर्हारी स्त्रियामिमे । कक्षास्पर्द्धा प्रतिस्पर्द्धा डम्बरे डिम्बविप्लवौ ॥ ३६४ ॥ परापर्यभितो भूता गतो भग्नः पलायितः । पराजितेऽपि नष्टः स्याद् गृहीतदिक् तिरोहितः ॥ ३६५॥ कांदिशीको भयत्रस्तोऽप्यथ भेलस्तु कातरः । "पलंकटश्च हरिणपर्यायहृदयार्थकः ॥ ३६६ ॥
धीरः कातरो भीरुर्भीलुश्चकित इत्यपि । 'रितश्चकिला भीतस्तत्रसित इत्यथ ॥ ३६७॥ जिताहवे। जितकाशी पराभूते पराजितः । विजित। निर्जितश्चाथ प्रस्कन्नपतितौ त्रिषु ॥ ३६८ ॥
१ विषारी KC २ शुद्धि B
शङ्कितो B
१७
३
गा ४ स्यात् ५ पतंकटश्च B ६ दरितः
B
B