________________
१२८ केशवकृतः कल्पद्रुकोशः नियुद्धं बाहुयुद्धे स्यात्तस्य भेदा अमी मताः । मिथः कर रहे योद्धोः प्रसृष्टा स्यास्त्रियामियम् ॥३५१॥ द्विगुणीकृतदोर्मध्ये ग्रीवाकर्षोऽपि कण्टकः । अवधूतं तु पादेन प्रेरणं यच्च वक्षसः ॥३५२॥ शलाकयाङ्गलीच्छिन्ना नखयष्टिहि सा मता । 'पद्भयां पदोर्यद्धरणं पादबन्धः स उच्यते ॥३५३॥ दोर्द्वयाकर्षणं कीलः प्रकोष्ठहननं तु यत् । स वज्रपातोऽथ पुनस्तुमुलं संकुलं रणम् ॥३५४॥ क्ष्वेडा स्त्री सिंहनादो ना क्ष्वेडितं पुनपुंसकम् । नासीरं त्वग्रयानं स्यादवमर्दस्तु पीडनम् ॥३५५॥ उत्पिञ्जलः काहलश्च हल्लोलस्तत्र लोलता । तत्राव्यक्तो वो रोलो हलः कोला हलः पुनः ॥३५६॥ प्रविदारश्च संग्रामो विदारः प्रविदारणम् । "संस्फेटश्चापि 'संपानोऽनीकः संफेट इत्यपि ॥३५७॥
संपरावः समुदयः संस्फोटः कलहोऽस्त्रियाम् । स्त्रियामाजी च समितिः स्यात् क्लीबे सांपरा यिकम् ॥३५८॥
आयोधनं च प्रधनं युद्धं संयत् स्त्रियां नरि। क्रन्दनं रोदनं रावो वृहितं करिगर्जितम् ॥३५६॥
१ ग्रहो BK २ पयामिति र पुस्तके नास्ति ३ रोलः वोल: Kc ४ संस्फे Rc ५ भिसंपातो BK ६ दायः ० ७ समिती B ८ यकम्।