________________
केशवकृतः कल्पद्रुकोशः १२५ दुःस्फोटमक्षिकाडाहडभसाः करपत्रकः। हुलिः कुठारः परिधः कुन्तिः शक्तिश्च कर्तरी ॥३२४॥ यष्टिः शस्त्राणि षटत्रिंशदमून्यायोधजीविनाम् । घाण्टिको घण्टिकः कोणः स्यादोऽस्रश्च पुंस्यमी ॥३२५॥ सर्वाभिसारः सर्वाभीसारोभी' राजनात्परः । स च स्यात्सर्वसंनाहोऽभिसारोभिसरोऽपि च ॥३२६॥ दशम्यां यो विधिभूपे स च लोहाभिसारकः । यत्सेनयाभिगमनमरौ तदभिषेणनम् ॥३२७॥ यात्रा वज्याभिनिर्याणं प्रयाणं गमनं गमः । प्रस्थानं च प्रसरणं ननासारः प्रचक्रकम् ॥३२८॥ अभिक्रमे रणे यानमभीतस्य रिपुं प्रति । अभ्यमियोऽभ्यमित्रीयोऽभ्यमित्रीणोयरिं वजन् ३१५॥ स्यात्सुहृद्दलमासारः प्रचक्रं चलितं बलम् । प्रसारस्तु प्रसरणं तृणकाष्ठादिहेतवे ॥३३०॥ वैतालिका बोधकराः प्रातर्गे याः स्तुतिवताः । अार्थिकाः सौखसुप्त्यर्था घाण्टिकाश्चाक्रिकाः समाः ।३३१॥ मागधा मगधास्ते स्युर्वन्दिनः स्तुतिपाठकाः। वैतालिकाद्या नग्नाः स्युनग्नाचार्यस्तु हिण्डकः ॥३३२॥
१ नी B२ यास्तु B ३ नानावीर्यास्तु B