________________
१२४
केशवकृतः कल्पद्रुकोशः
शक्ती स्त्रियां तथा शक्तिरमृतापि महाफला । कासूः खुरोत्तमस्तु स्यात्पट्टिशः पटिसेोऽपि च ॥ ३१५॥ पालिरस्त्री कोटिरेता दीर्घान्ताः स्युः स्त्रियामिमाः । कुला' प्रका तु चिरिका फलपत्रा के हुलम् ॥३१६॥ वराहकर्णोन्वर्थः स्याद्दुः स्फोटस्तीक्ष्णधारकः ।
करो लोहदण्डश्चक्रं तु वलयाकृति ॥३१७॥ क्ली सुसंचितमपि मुद्गरो द्रुघणो घनः ।
घनेोऽपि च कुन्ते तु प्रासः प्राशः शलोऽपि च ॥३१८॥ शल्यमस्त्री पुंसि शङ्कस्तत्र दीर्घायुधं पुनः । द्वयोः कुठारः परशुः पशुः परश्वधोऽपि च ॥ ३९६ ॥ परस्वधश्च स्वधितिष्टङ्कोपि पर्श्वधः कुठः । सर्वला शर्वलापि स्त्री सर्वली शर्वलीत्यपि ॥ ३२०॥ स्त्रियां तोमरोथ स्यात्परिघः परिपालनः । सर्वलोहमयं यमं त्रिशूलं तु त्रि' शीर्षकम् ॥ ३२९॥ धनुः खड्गो गदाचक्रवज्ज्रखट्वाङ्गतोमराः । यमदंष्ट्रा तुरीमूलं कर्त्तरी मुनरो हलम् ॥ ३२२ ॥ पाशोङ्कुशो भिन्दिपालः कणपः पट्टिशस्ततः । भुशुण्डी शङ्खमुसलस्तरुगोफणपत्रणाः ॥ ३३३॥
१ मला B हुलाकेति शुद्धं प्रतिभाति २ दु:स्फोट KC ३ कलो K कालो B ४ समंचित B ५ पातः B ६ त्रिशलं KO ७ शीघ्रकम् B
C
म स्तरूप