________________
११८ केशवकृतः कल्पद्रुकोशः द्रुणासेष्वासगुणतः पुं क्लीबे स्त्रव्य,' पुनः। प्रतिकायः पुमानस्याग्रगते कोटिरित्यपि ॥२६२॥ अटनी धनुषो मध्ये लस्तको ना गुग्णालयः । मौर्वी ज्या सिञ्जिनी जीवा न ना गव्या गुणो द्वयोः॥२६३॥ पतञ्जिका गुणा सिञ्जा क्लीवे वाणासनं गुणः । गोधा स्त्रियां तलं क्लीबे सैव स्याहाहुपट्टिका ॥२६४॥ "क्लीबे लक्षं शरव्यं स्याल्लक्ष्यं वेध्यमुपासनम् । शराभ्यासः श्रमो योग्या खलूरी खुरलीति च ॥२६५॥ खलूरिका तु तद्भभिरवष्टम्भश्च सौष्ठवम् । युग्या गुणनिका ग्राह्या काण्डोऽस्त्री विशिखः पुमान् ।२६६। सायकोऽजिह्मगो बाणः पृषत्कोपि शिलीमुखः । कलम्बो मार्गको रोपः पत्री स्यात्खग प्राशुगः ॥२६७॥ स्यागाईकयोः पत्रो वाजः प्रदर इत्यपि । स्थूलदण्डो विपाटः स्याद"स्त्रार्थास्कण्टकार्थकः ॥२६॥ विकर्षः पत्रवाहश्च चित्रपुङ्खः शरः"खरुः । १२सरः शरुमर्मभेदी वीरशङ्कश्च लक्षहा ॥२६॥ १३कदम्बसायकादम्बा वाजी च स्यादिषुर्द्वयोः। प्रक्ष्वेडनो ना नाराचोप्यस्त्रं षण सायकः पुमान् ॥२७॥
१ स्न्यः २ गुणा ३ सिञ्चाB ४ क्लीबेइत्यादिश्लोक: पुस्तके नास्ति । ५ पि: ६ पुण्या ७ गुणनिकाल्याचाB F द्वार:RC ६ विपाठ:BK १० दस्ताRO ११ स्वरुःB १२ शरोमरु:B १३ कदम्बासायः कादम्बो0.