________________
केशवकृतः कल्पद्रुकोशः
(४११२७४७०)
'गजाश्च खाश्ववेदाश्वरविचन्द्राब्धिभिः क्रमात् ।
११७
(८५६२४५०)
सादिनः खशराब्ध्यक्षितर्केषु वसु षरिमताः ॥२५३॥ पत्तयो यत्र सा प्रोक्ता महाक्षौहिणिका बुधैः । व्यूहस्तु बलविन्यासो भेदा दण्डादयो युधि ॥ २५४॥ प्रत्यासारो द्वयोः पार्ष्णिः सैन्यपृष्ठं प्रतिग्रहः । प्रतिग्रहोऽपि पुंसि स्यात्पाष्ण प्रत्यासरोऽपि च ॥ २५५ ॥ मुखे रथा हयाः पृष्ठे तत्पृष्ठे च पदातयः । पार्श्वयोश्च गजाः कार्या व्यूहोऽयं परिकीर्तितः ॥ २५६॥ संपत्तिः संपदा संपलक्ष्मीः श्रीविपदा विपत् । विपत्तिरापदुःखार्था न द्वयोरायुधं पुनः ॥ २५७॥ अस्त्रं शस्त्रं प्रहरणं हेतिर्वा नाथ तत्त्रिधा । पाणियन्त्रादिना मुक्तं तच्च शक्तिशरादिकम् ॥२५८॥
मुक्तं शस्त्रि कादिस्याद्यष्ट्याद्यंतु द्वयात्मकम् । श्रवलम्बः पुमान्दण्डो यष्टिश्च तरणिर्द्वयोः ॥ २५६॥ मन्त्रप्रयोगजं शस्त्रमथ धन्व तु कार्मुकम् । शरासनं च कोदण्ड सरासनममूनिषणू ॥२६०॥ स्यादस्त्रियां धनुः षान्तं धनुः पुंसि धनूः स्त्रियाम् । तृणता त्रिणता चापो न स्त्री गाण्डीवगाण्डिवौ ॥२६१ ॥
१ बाजाश्च B ५ शरासन KO ६
२ समिताः B ३ भ्यू होB ४ का इत्येकमक्षरं पुस्तके नास्ति सान्त B ७ धनू: KC ८ चापो KC