________________
केशवकृतः कल्पद्रुकोशः ११५ शस्त्राजीव श्रायुधिककाण्डपृष्ठायुधीयकाः । काण्डपृष्ठसहाये तु प्रतिष्कशप्रतिष्कौ ॥२३॥ यो बहून्योधयेदेकः स महातिरथः पुनः । दूरापाती दूरवेधी लघुहस्तार्थ इत्यपि ॥२३६॥ कृतहस्तः सुप्रयुक्तो विशिखः शीघ्रवेष्यपि । कृतपुङ्खोथापराद्धपृषत्को लक्ष्यतश्च्युतः ॥२३७॥ धनुर्निषङ्गपर्यायमत्वर्थप्रत्ययी पुनः। . धनुर्धरोथ काण्डीरः काण्डवाञ्छक्तिहेतिकः ॥२३८॥ शाक्तीक एवं याष्टीकः पारश्वधिक इत्यपि। नैस्त्रिंशकोऽसिहतिः स्यात्प्रासिकः कौन्तिकोऽपि च ॥२३॥ चर्मी फलकपाणिः स्यात् पताकी वैजयन्तिकः । अनुप्लवः सहायश्च चतुराभिचरौ समौ ॥२४॥ अग्रेसरोग्रे भविता पुरोगो नायकोऽपि च । पुरोगमः पुरोगामी'स चैवाग्राग्रतः सरः ॥२४१॥ मन्थरो वेगगमनो जकालस्त्वतिवेगिनि। । जाडिको जवाकरिकस्तरखी त्वरितो जवी ॥२४॥ जवनः प्रजवो वेगी'जकिलो जाड इत्यपि । अन्वत्यन्तंभृशंकाममेभ्यो गामी क्रमादयम् ॥२४३॥
१ चैका २ जङ्घीनो।