________________
केशवकृतः कल्पद्रुकोशः
पदस्थाने 'पादिके च पादाधारा वथापि च । पुच्छाटिका पुच्छबन्धे खुरत्राणं खुरोपरि ॥ २१७ ॥ बन्धने स्यात् खुराधस्ताल्लौहे त्राणे तु नालकः । तलत्रं स्याद्वयोरश्मिः क्लीबे प्रवपणं स्त्रियाम् ॥२१८॥ कुशावक्षेपणी वल्गा क्लीबे धोरितवल्गिते । स्त्रियां प्लुतिरिमे क्लीवे तेजितोत्तेरिते पुनः ॥ २९६॥ गतयः पञ्च धाराः स्युस्तुरगाणां क्रमादिमाः । तत्र धौरितकं धौर्य धोरणं धोरितं च यत् ॥ २२०॥ वभ्रुके शिखिकं क्रोडगतिवद्वल्गिते पुनः । श्रग्रच्छायसमुल्लासात् कुञ्चितायं नतत्रिकम् ॥२२१॥ प्लुतिस्तु लङ्घनं पक्षिमृगगत्यनुहारकम् । उत्तेजितं रेचितं स्यान्मध्यवेगेन या गतिः ॥२२२॥ उत्तेरित 'मुपकण्ठमास्कन्दितकमित्यपि । उत्लुत्योत्प्लुत्य गमनं क्रोधादिवाखिलैः पदैः ॥२२३॥ स्त्रियां वाहनं पत्रं यानं युग्यं च धोरणम् । परंपरावाहनं यत्तद्वैनीतकमस्त्रियाम् ॥ २२४ ॥ अश्वारोहा अश्ववाहाः सादिनोऽथ निषङ्गिणः । भटा योधाश्च येोद्धारः सेनारक्षाश्च ते पुनः ॥२२५॥
१.१.३
१ पदिके B २ वBK द ३ पुच्छKC ४ नालका : B लालकाः ० -५ - KO ६ मुपकण्ठमित्यारभ्य तद्वैनीतकपर्य्यन्तं पुस्तके नास्ति ।
* च्छायेतिपाठः सर्वेष्वादर्शेषु । कायेतिपाठः संभाव्यते ।
१/