________________
केशवकृतः कल्पद्रुकोशः १०३ अधिकारः प्रक्रिया स्त्री द्वयोश्चमरचामरे । लोमगुच्छः पुमान् क्लीब चारतूलमथ त्रिषु ॥ १२६ ॥ छत्रं तु नृपचिन्हार्थं राजशृङ्गार्थकं च षण् । हेमदण्ड'चातपत्रमुत्कूटं चोष्णवारणम् ॥ १२७ ॥ चक्रपर्यायतोगार्थ भृङ्गालुः कनकालुका । ३निवेशः शिविरं क्लीबं सज्जनं तूपरक्षणे ॥ १२८॥ रथो गजो ऽश्वः पादातः सेनाङ्ग स्याच्चतुर्विधम् । युद्धार्थे चक्रवद्याने शताङ्गः स्यन्दनो रथः ॥१२६॥ वङ्करो मूलविभुजो यहो प्यस्त्री विमानकः । सक्रीडार्थः पुष्यरथी देवार्थस्तु मरुद्रथः ॥ १३० ॥ योग्या स्त्रियां वैनयिकोऽध्वरथः पारियानिकः । कर्णीरथःप्रवहणं डयनं हयनं समे ॥१३१ ॥ शकटोऽस्त्रीत्वनः क्लीबे शकटिः शकटी स्त्रियौ। त्रिषु काम्बल वास्त्राद्यास्तैस्तैः परिवृते रथे ॥१३२॥ सपाण्डुकलीयो यःसंवीतः पाण्डुकम्बलैः । स तु ज्ञेयश्च वैय्यांघो यो वृतो व्याघ्रचर्मणा ॥१३३ । एवं द्वीप्यादिचर्मादिसंवीते द्वैप इत्यपि । रथार्थात्पादपर्यायमङ्गपर्यायमस्त्रियाम् ॥ १३४ ॥ १ हिमदण्डंxc २ मुकुट मुल्कूटkB ३ निवेशंxc णम्।
६ यB ७ नं ८ मम्र वस्त्रा
५