________________
केशवकृतः कल्पद्रुकोशः कामक्रोधौ लोभ'हषौं मानश्चापि मदः पुनः । अन्तर्गतोऽरिषड्वर्गः प्राणस्य नुत्तृषे पुनः ॥ ११७॥ शोकमोहौ तु मनसो जरामृत्यू च वर्मणः । षडूमयोतिवृष्टिः स्यादवृष्टिः शलभाः शुकाः ॥११८॥ श्राखुस्वपरचक्राणि सप्तता ईतयः पुमान् । भृत्यैमित्रेश्च मन्त्रैश्च बलं त्रिविधमुच्यते ॥ ११६ ॥ हस्त्यश्वरथपादातं सेनाङ्ग स्याच्चतुष्टयम् । षडङ्ग भारिकखाभ्यां वारदेशिकयोद्धृभिः ॥ १२० ॥ सकर्मकारैरष्टाङ्ग प्रतप्तस्तु प्रतापवान् । सौम्योधिगम्यो ऽथ शुचिरुपधातीतकः समौ ॥ १२१ पौराद्यनुग्रहे युक्तो वृत्तिावृत्तिरन्यतः । पक्षे पक्षे तुलामानं भाण्डार्घप्रत्यवेक्षणम् ॥ १२२ ॥ संमाननं च मान्यानां लब्धप्रशमनानि षट । प्रतिभोगप्रातिभोगौ शाकादेरुपढौकनम् ॥ १२३ ॥ शूद्रकन्याकरो यः स्यात्स च' गौरीवराढ"कम् । राधाचक्रं तु तद्यन्त्रे चले यन्मील्यलोचनम् । १२४ प्रतिबिम्बेक्षणवशादूर्ध्वं वेध्यमधोमुखम् । तद्वधनादिकं कर्म वीर्यशुल्कमिति स्मृतम् । १२५
१ लाभ २ स्यादवृष्टिः इति पुस्तके नास्ति ३ अाखू c४ पुनः ? ५ त्रिविधं बल ६ म्योंश ७ भाण्डायं ८ कौटनम् KC ढौकनम्
६ व्यः १० तु ११ वराटकम्