________________
६२ केशवकृतः कल्पद्रुकोशः
बाहुको नैषधः पुण्यश्लोकोऽश्वज्ञोऽस्य च प्रिया । दमयन्ती तु वैदी भैमी स्यादथ नाहुषः ॥२७॥ ययातिरर्जुनः कार्तवीर्यो हैहय इत्यपि । कार्त्तिवीर्यः कार्तवीर्यार्जुनो माहिष्मतीपतिः ॥२८॥ सहस्रबाहुपर्यायो दौष्यन्तिर्भरतोऽपि च । सर्वदमः सर्वदमः स्यात्सर्वदमनोऽपि सः ॥२६॥ शाकुन्तलेयः खटवाङ्गो दिलीपोप्यथ शांतनुः । शन्तनुश्च महाभीष्मः प्रतीपोऽथ परावसुः ॥३०॥ गङ्गापर्यायपुत्रार्थो गाङ्गयो गाङ्ग इत्यपि । गाङ्गायनिः' शान्तनवो भीष्मो देवव्रतोपि च ॥३१॥ रक्षःपर्यायदन्तार्थः स्यादिच्छामरणार्थकः । प्रज्ञापर्यायनेत्रार्थो धृतराष्ट्रोऽम्बिकासुतः ॥३२॥ वैचित्रवीर्यः पाण्डुः स्याद्धृतराष्ट्रानुजोऽपि च । अम्बालिकेयः पल्ल्यस्य कुन्ती कुन्ता च सात्वती ॥३३॥ पृथान्या शल्यभगिनी माद्री शल्यस्तु मद्रपः । दुर्योधनस्तु कुरुराडू गान्धारेयः सुयोधनः ॥३४॥ शताग्रजोऽस्यावरजास्ते स्युर्दुःशासनादयः । शकुनिः सौबलोपि स्याद्गान्धारोऽप्यक्षकोविदः ॥३५॥
१ गङ्गायविः।