________________
केशवकृतः कल्पद्रुकोशः दर्शको दर्शितद्वाः स्याद् द्वाःस्थो' द्वास्स्थितदर्शकः । स च द्वाःस्थितदर्शी स्यात् प्रतिहार उदास्थितः॥१०॥ उपस्थितः प्रतीहारी प्रतिहार्यपि वा पुनः । व्यवहारद्रष्टरि स्यात्प्राड्विवाकोऽक्षदर्शकः ॥११॥ अथापि स्यादनीकस्थो रक्षिवर्गो थकोहपः । अध्यक्षोधिकृतस्तस्य नरे दौःसाधिकोऽपि च ॥१२॥ गर्वाटो वर्त्तको दण्डधार्यथ स्थायुकोऽपि च । राज्ञा योधिकृतः स स्याद्गोपो ग्रामेषु भूरिषु ॥१३॥ स्वर्णाध्यक्षो भौरिकः स्यात् हेरिकोप्यथ नैष्किकः। रौप्याध्यत्तष्टङ्कशाली टङ्कपर्यायतः पतिः ॥१४॥ क्षुद्रोपकरणानां चोपाध्यक्षः परिकर्मिकः । पुराध्यक्ष दण्डपतिः पौरिको दण्डपाशिकः ॥१५॥ स्थानाध्यक्षः स्थानिकः स्याच्छुल्काध्यक्षस्तु शौल्किकः । धर्माध्यक्षो धार्मिकः स्याद्धर्माधिकरणीत्यपि ॥१६॥ हयाध्यक्षो हायिकः स्यात्पाकाध्यक्षस्तु पाकिकः । चतुरङ्गबलाध्यक्षः सेनानीर्दण्डनायकः ॥१७॥ स्यातामन्तःपुराध्यक्षेऽन्तर्वेशिकावरोधिकौ । कुब्जो वर्षवरः षण्ढः (षाढः text) सौविदल्लश्च कञ्चुकी १८
१ त्स्थेयो...स्या" पुस्तके न दृश्यते २ स्याद्भरिको" ३ योध्यक्ष परिका" ४ शौल्कका ५ धर्माध्यक्षो...... कञ्च की" पुस्तके एव दृश्यते नान्येषु ।