________________
केशवकृतः कल्पद्रुकोशः ८६ राजन्यो बाहुपर्यायजन्मार्थः क्षत्रियो विराट । राड्राजा स्यादपि' क्षत्रं राज्ञि' भूपार्थपार्थिवौ ॥१॥ भूपर्यायपतिक्षिद्धृत् पार्थवो भूपुरंदरः । भूमिप्रजामनुष्याणां पर्यायेभ्यो धनस्य च ॥२॥ नेतृपेशपतीनां च पालार्थानां च वाचकः । मूर्द्धाभिषिक्तः पृथिवी-शक्रपर्याय इत्यपि ॥३॥ मण्डलेश्वरपर्यायः सामन्तोथाप्यधीश्वरः । प्रणताशेषसामन्तश्चक्रवर्ती भयापहः ॥४॥ एकजन्मा सार्वभौमो प्यतोऽन्ये मध्यमवर्तिनः । सत्वप्रतिरथो यस्य नास्ति प्रतिरथो युधि ॥५॥ येनेष्टं राजसूयेन मण्डलस्येश्वरश्च यः । शास्ति यश्चाज्ञया राज्ञः स सम्राडथ राजकम् ॥६॥ राजन्यकं च नृपतिः क्षत्रमस्त्रीगणे क्रमात् । महामात्रो धी सचिवो मन्त्री सचिव इत्यपि ॥७॥ स च ग्रन्थिहरोऽमात्यः स्यात्प्रधानं च न स्त्रियः । अमात्याः कर्मसचिवास्तत्तत्कर्माधिकारिणः ॥८॥ पुरोहितः पुरोधाः स्यात्स्थेयोऽथ द्वारपालके । दौवारिकः प्रतीहारो द्वाःस्थितो वेत्रधारकः ॥६॥
१ दथः २ राट् पार्थ ३ पार्थिवो ४ सामन्तः स्याद" ५ प्यतोन्ये ६ नृपतिक्षत्रियाणां गणे७ अमात्यः।