________________
८८
केशवकृतः कल्पद्रुकोशः परिवाडपि कर्मन्दी तापसो मस्करी यती। पाराशरी रक्तवस्त्रपर्यायः परिकाक्ष्यपि ॥१७४॥ वाचंयमो मुनिरपि द्वयोरेव मुनी स्त्रियाम् । स्यात्परिवाजकश्चाथ शेते यः स्थण्डिले वतात् ॥१७॥ स्थाण्डिल्यःर स्थण्डिलेशायी स्थण्डिलेशयइत्यपि । तपक्लेशसहोदान्तः क्षान्तः शान्तो जितेन्द्रियः॥१७६॥ तपस्या तु तपो जप्यं जाप्यं जापो जपः पुनः। कमण्डलुश्चैत्यमुखः करकः कुण्डिकः स्त्रियाम् ॥१७७॥ यत्यासने ब्रुसीब्रुष्यौ वृषी वृषिः स्त्रियामिमाः। त्रिवर्गो धर्मकामाथै श्चतुर्वर्गः समोक्षकः ॥१७॥ बलतुर्याश्चतुर्भद्रमथ देवत्वमित्यपि । देवसायुज्यमपि च देवभूयादिकं पुनः॥१७॥ प्रयोज्यमेवं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि । ब्रह्मभूयं स्त्रियां मुक्तिः पुंसि मोक्षापवर्मकौ ॥१८॥ क्लीबे कैवल्यनिर्वाणश्रेयो निःश्रेयसामृते । संन्यासवत्यनशनव्रते प्रायस्तु न स्त्रियाम् ॥१८१॥ कल्पद्रौ केशवकृते फलिते नामसंचयैः ।। भूस्कन्धे ब्रह्मकाण्डोऽयं तुर्यः सिद्धिमुपागतः ॥१८२॥
इत्यृषिगोत्रब्रह्मप्रकाण्डः । 1 पार २ ल: BKS ३ श्रान्तो B ४ जायो B२ काB