________________
केशवकृतः कल्पद्रुकोशः
रोगक्रोधभयैर्यत्तदन्नत्यागाच्च लङ्घनम् । यन्तरे यन्तरे' भुक्तं तत्तु षष्ठात्म कालकम् ॥३०॥ श्रर्द्धानं चार्द्धशनं विज्ञेयं चार्द्ध भोजने । नित्यकर्मसमा हारनैष्टुये चैक 'चित्तता ॥ ३१ ॥ मणिबन्धात्पुरो ब्राह्मं मानुषं करभान्तरा । श्रङ्गुल्ययेषु देवं स्यात्तर्जनीमध्यमान्तरा ॥ ३२ ॥ देव्यामध्यानामिकयोर्मूलमाग्नेयमित्यपि । श्रङ्गुष्ठतर्जनीमूले पित्र्यं तीर्थानि वै करे ॥ ३३ ॥ उपाकर्मोपा करणे स्यात्स्त्रियामप्युपाकृतिः । सर्वैनसामपभ्रंशि जप्यमस्त्र्यघमर्षणम् ॥३४॥ वाच्यलिङ्गं 'तद्वति पणू चरितं शीलमस्त्रियाम् । ब्रह्मासनं ध्यानयोगासने कल्पो विधिः क्रमः ॥३५॥ मुख्यः स्यात्प्रथमः कल्पो' ह्यनुकल्पस्ततोऽधमः । नमस्काराभिवादौ च पादग्रहणमित्यपि ॥ ३६ ॥ अथ यस्तूपकुर्वाणः स्नाती स्नातः स श्राप्लुतः । समावृत्तो गृहमुख लब्धानुज्ञो गुरोः कुलात् ॥३७॥ व्रती यावद्विवाहं स्यादुव्योर्वाहः परिग्रहः । पाणिपर्यायग्रहणं पीडापर्यायकं पुनः ॥ ३८ ॥
७२
१ भुक्तमाहु: B २ भोजनम् ३ टङ्कताBK ४ च तद्वत् षण्B ५ नुकल्पस्तु B