________________
४१२॥
६६ केशवकृतः कल्पद्रुकोशः म्लेच्छद्विष्टो भवानीष्टो जटालः कौशिकः पुरः। निशाटको भूतहरः कालनिर्यासशावरौ ॥४११॥ मरुदेश्यो रूक्षगन्धा' वातघ्नो महिषाक्षकः । देवेष्टोऽपि च रक्षोहा दित्यो दुर्गः शिवोप्यथ ॥४१२॥ गन्धराजः स्वर्णवर्णः सुवर्णकणगुग्गुलुः । पलंकषश्च सुरभिवंशपीतोथ भूमिजः ॥४१३॥ महिषासुरमज्जोत्थो दुर्गापर्यायवल्लभः । आशापुरोद्भवो दुर्गाह्लादो भूतन इत्यपि ॥४१४॥ मेध्यः सौरभ्यदः शालनिर्यासस्त्वग्निवल्लभः। रालः सर्जरसः शालः कालः कनकलोद्भवः॥४१५॥ बहुरूपः कललजः सुरभिर्यक्षधूपकः । देवेष्टः शीतलोऽपि स्यादथ पालीन्दभीषणौ ॥४१६ ॥ सौराष्ट्रः शिखरी कन्दुः कन्दूरक सुकन्दको । बहुगन्धो गोपुरगस्तीक्ष्णः शंखः खरः शकः॥४१७॥ रुप्योऽपि बदरीपत्रः श्ललः कोशीहनुः स्त्रियाम् । शिपिः शुक्ति' गहनुः पुनः पर्णविलासिनी ॥४१८॥ संधिनालो नखार्थः स्यादथ व्यालनखः पुनः । व्यालायुधो व्याघ्रनखः कूटस्थश्चक्रनायकः ॥४१६॥
१ धोB २ दुर्गशिरोB ३ सुभगोषB ४ कुर५ मुक र मुकु ६ खराशकःK • श्लील:B + हनुनियामB 4 नाहनुगःB