________________
केशवकृतः कल्पद्रुकोशः अभयं वीरणं वीरं समगन्धिकमित्यपि । रणप्रियं वीरतरं शिशिरं शीतमूलकम् ॥४०२॥ शुभ्रं सुगन्धिकं चापि कलकं चाथ शेखरम् । स्त्रियां लवङ्गकलिका दिव्यं क्लीबे न'च स्त्रियाम् ॥४०३॥ लवङ्ग देवपर्यायपुष्पपर्यायकं फलम् । लक्ष्मीपर्यायपुष्पार्थं गारं वान्तसम्भवम् ॥४०४॥ रुचिरं स्यादथ स्वादुः सुधूमो गरुसारकः । गन्धधूमभवोथास्त्री कृष्णादगरुकाष्ठके ॥४०॥ अगुरुर्वसुकः केश्यः शृङ्गारो विश्वरूपकः । धूपार्हो वल्लरोऽपि स्यान्मिश्रवर्णोऽथ पीतकः ॥४०६॥ अलारोऽनार्यको लोहः स च वर्णप्रसादनः । काष्ठागुरुः कृमिजग्धश्चाथ स्यादहनागुरुः ॥४०७॥ दाहागुरु ाहकाष्ठं पुरं धूपाङ्गदः पुनः। वल्लभः पूरमथनं मङ्गल्यामल्लिके स्त्रियौ ॥४०८॥ गन्धार्थ मङ्गलाच्चाथ तुरुष्को यवनः कपिः। पिण्याकः कपिजो धूम्रः शिल्पिसारः सुगन्धकः२१४०६ शिल्पिकः पीतसारः स्यात् पिण्डितः पिण्डतैलकः । करेवरः कृत्रिमको लेपनश्चाथ गुग्गुलुः । ॥४१०॥ १ चनB २ प्लवम्BK ३ वान्तिBK ४ सB ५ बसुकःB ६ वर्णेB ७ गB ८ गB | पूरक १० श्लोकार्धनास्ति पुस्तके ११ पिनाक: १२ सुगन्धिBK