________________
६२
केशवकृतः कल्पद्रुकोशः
तत्स्यादबहलगन्ध च पित्त'गन्ध तु पीतकम् । कालेयवर्वरं पीतचन्दनं माधवप्रियम् ॥३७५॥ अथ रक्तार्कनुद्रेभ्यश्चन्दनं रक्तसारकम् । कुचन्दनं हिमं चाय वर्वरं श्वेतवर्वरम् ॥३७६॥ वर्वरोत्थं लोहितं तु सुराहँ नन्दनोद्भवम् । हरिगन्धं महागन्धमिन्द्रपर्यायचन्दनम् ॥३७७॥ स्यादस्त्रियां दिव्यमथ काश्मीरं पिशुनं वरम् । शठं वरेण्यं घुमृणमरुणं वह्निशेखरम् ॥३७८॥ गौरं कालेयकं कान्तं जागुडं केशरोऽस्त्रियाम् । कुङ्कमं चापि वाह्रीकं पीतं काश्मीरसंभवम् ॥३७६॥ अस्मृक्पर्यायि काश्मीरं सूर्यपर्यायि दीपनम् । संकोचं सौरमं धीरं वर्णं स्यात्पीतचन्दनम् ॥३८०॥ घोरं चाथ तृणोत्थं तुतृणात्लुङ्कमार्थकम् । तृणपुष्पार्थकं चाथ श्यामा गन्धमृगाण्डजा ॥३८१॥ कस्तूरी मृगनाभिः स्यान्मदनी गन्धवेलिका । मार्जारी सुभगा वेधमुख्या स्याबहुगन्धदा ॥३८२॥ श्यामला ललिता गन्धधूलिरामोदिनीत्यपि । मृगः सहस्रवेधी स्यान्मार्गो मृगमदोऽपि च ॥३८३॥
१ पीत २ पीतBK ३ गौर ४ वाहिक