________________
केशवकृतः कल्पद्रुकोशः देवाजातस्तत्र दन्तभेदाख्या विविधा गदाः । अथ रुग्णोऽमितो म्लानो व्याधितो विकृतो पटुः॥३५७॥ अभ्यान्तः सामयो मन्द अातुरो ग्लास्नुरित्यपि । तद्विशेषाः समुन्नेयास्तत्तन्मत्वर्थगोचराः ३५८॥ यथा ज्वरितकण्डूलार्शसक्षयितदद्रुणाः। त्रिष्वथो भेषजं क्लीबे भैषज्यं च भिषग्जितम् ॥३५॥ औषधं चागदं जायुः पुंस्यथापि च निग्रहः । उपचारश्चोपशमश्चिकित्सा रुक प्रतिक्रिया ॥३६०॥ उपचर्याथात्मनीनमायुष्यं च हितं च तत् । पथ्यं स्यादप्यथारोग्यं वात पाटवलाघवे ॥३६१॥ अनामयमथोल्लाघः पटुः कल्पो निरामयः । अग्लास्तुरगदो नीरुगनातको लघुः पुनः ॥३६२॥ वार्तोपि स्यादथो वैद्य आयुर्वेदी चिकित्सकः । रोगहार्यगदंकारो रोगज्ञो जीवदो भिषक ॥३६३॥ स्रष्टा विद्वान्विधिरथ विषवैद्यस्तु जागली। कथाप्रसङ्गः क्लिन्नाक्षे'चुल्लश्चिल्लश्च पिल्लकः ॥३६४॥ वाच्यलिङ्गा'थो पथ्यं पादाहारः स्त्रियां मजा । स्यान्माष्टिमार्जनी क्लीबे स्यादुद्वर्त्तनमित्यपि ॥३६५॥
१ भेदाचा २ निता अभ्यन्तो ३ बिल्ल ४ प्रथाप्यान् * पथ्यं पादाहार इति पर्यायौ