________________
केशवकृतः कल्पद्रुकोशः
एकादशैष्ठ 'जा दन्तमूलरोगास्त्रयोदश ।
तालुगा जिह्वाभवाः षड गलजा गदाः ॥ ३४८ ॥
५६
ܢ
७
अष्टादशाष्टावपरे मुखमध्यभवा अथ । अष्टादश स्युः कर्णोत्थाः सप्तपाली समुद्भवाः ॥३४६॥ कर्णमूलोद्भवाः पञ्चदशाष्टौ नासिकोद्भवाः । शिरोरोगा दशैव स्युस्ते खलत्यादयोप्यथ ॥ ३५० ॥ नवैव स्युः कपालात्थास्तेषु स्यादिन्द्रलुप्तकम् । तथा पलितमित्याद्याथ नेत्रसमुद्भवाः ॥ ३५१ ॥ चतुर्नवति संख्याकाः पुंस्त्वदोषास्तु पञ्चधा । कुम्भीक इषको सेक्यः सुगन्धी पण्ड इत्यमी ॥ ३५२ ॥ थाप्यष्टौ शुक्रदोषा श्रथ स्त्रीदेहजागदः । तेष्वष्टावार्त्तवोत्थास्तु तत्र पूयाभमार्त्तवम् ॥ ३५३ ॥ कुण्यं ग्रन्थिलं क्षीणमलतुल्यादिकं च तत् । प्रदरोऽस्त्री चतुर्धा स्यादथ योनिसमुद्भवाः ॥ ३५४ ॥ चतुर्विंशतिराख्याताः शुक्रावामिनिकादयः । योनि कन्दश्चतुर्धा स्यादष्टधा गर्भजो गदः ॥ ३५५॥ पञ्चधा स्तनजा रोगा बालरोगस्त्रिधा मतः । ऋदक्षपुरुषाज्जातः सपत्नीविहितोऽपरः ॥ ३५६॥
*
१ दशer B २ ईर्ष्या का सेक्यौ' ३ पढ' षण्ढ घंठ ४ कुणपद्म ५ ग्रन्थिकं, क B ६ वामिनी ७ जात: B